वांछित मन्त्र चुनें
आर्चिक को चुनें

ए꣡न्द्र꣢ सान꣣सि꣢ꣳ र꣣यि꣢ꣳ स꣣जि꣡त्वा꣢नꣳ सदा꣣स꣡ह꣢म् । व꣡र्षि꣢ष्ठमू꣣त꣡ये꣢ भर ॥१२९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एन्द्र सानसिꣳ रयिꣳ सजित्वानꣳ सदासहम् । वर्षिष्ठमूतये भर ॥१२९॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । इ꣣न्द्र । सानसि꣢म् । र꣣यि꣢म् । स꣣जि꣡त्वा꣢नम् । स꣣ । जि꣡त्वा꣢꣯नम् । स꣣दास꣡ह꣢म् । स꣣दा । स꣡ह꣢꣯म् । व꣡र्षि꣢꣯ष्ठम् । ऊ꣣त꣡ये꣢ । भ꣣र । ॥१२९॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 129 | (कौथोम) 2 » 1 » 4 » 5 | (रानायाणीय) 2 » 2 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में इन्द्र से धन की प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमैश्वर्यशाली, परम ऐश्वर्य के दाता परमात्मन् और राजन् ! आप (सानसिम्) संभजनीय, (सजित्वानम्) सहोत्पन्न शत्रुओं को जीतनेवाले, (सदासहम्) सदा दुष्ट शत्रुओं का अभिभव करानेवाले और दुःखों को सहन करानेवाले, (वर्षिष्ठम्) अतिशय बढ़े हुए और बढ़ानेवाले (रयिम्) अहिंसा, सत्य, शम, दम आदि दैवी सम्पदा को तथा विद्या, धन, बल, चक्रवर्ती राज्य आदि भौतिक ऐश्वर्य को (ऊतये)) हमारी रक्षा, प्रगति, प्रीति और तृप्ति के लिए (आ भर) प्रदान कीजिए ॥५॥

भावार्थभाषाः -

सब मनुष्यों को परमधनी परमात्मा और राजा से याचना करके और अपने पुरुषार्थ द्वारा अहिंसा, सत्य, अस्तेय, ब्रह्मचर्य, अपरिग्रह, शौच, संतोष, तप, स्वाध्याय, ईश्वरप्रणिधान, शम, दम, तेज तप, क्षमा, धृति आदि दैवी सम्पदा और विद्या, धन, बल, दीर्घायुष्य, पशु, पुत्र, पौत्र, कलत्र, चक्रवर्ती राज्य आदि भौतिक सम्पदा का उपार्जन करना चाहिए ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेन्द्रो धनं प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमैश्वर्यशालिन् परमैश्वर्यप्रद परमात्मन् राजन् वा ! त्वम् (सानसिम्) संभजनीयम्। सानसि पर्णसि उ० ४।११० अनेनायं षण सम्भक्तौ धातोरसि प्रत्ययान्तो निपातितः। (सजित्वानम्२) सहभवान् शत्रून् जयतीति सजित्वा तम्। अत्र अन्येभ्योऽपि दृश्यते अ० ३।२।७५ अनेन जिधातोः क्वनिप् प्रत्ययः। सहस्य सभावः। (सदासहम्) सर्वदा दुष्टानां शत्रूणाम् अभिभवहेतुम्, सदा दुःखानां सहनहेतुं च। सदा पूर्वात् षह मर्षणे धातोः क्विप् प्रत्ययः। (वर्षिष्ठम्) अतिशयेन वृद्धं वृद्धिकारकं च। अत्र वृद्धशब्दात् अतिशायने इष्ठनि प्रियस्थिर० अ० ६।४।१५७ इत्यनेन वृद्धस्य वर्षिरादेशः। (रयिम्) अहिंसासत्यशमदमादिकां दैवीं सम्पदम् विद्याधनबलचक्रवर्तिराज्यादिकं भौतिकमैश्वर्यं च अस्माकम् (ऊतये) रक्षणाय, प्रगतये, प्रीतये, तृप्त्यै वा। अव रक्षणगतिकान्तिप्रीतितृप्त्यादिषु, तस्मात् क्तिनि रूपम्। (आभर) आहर। हृञ् हरणे, हृग्रहोर्भश्छन्दसि ८।२।३५ वा० इति हस्य भः ॥५॥३ अत्र श्लेषालङ्कारः ॥५॥

भावार्थभाषाः -

सर्वैर्मनुष्यैः परमैश्वर्यवन्तं परमात्मानं राजानं च याचित्वा स्वपौरुषेण चाहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहशौचसन्तोषतपः- स्वाध्यायेश्वरप्रणिधानशमदमतेजस्तपःक्षमाधृत्यादिरूपा दैवी सम्पद् विद्याधनबलदीर्घायुष्यपशुपुत्रपौत्रकलत्रचक्रवर्तिराज्यादिरूपा भौतिकी सम्पच्च समुपार्जनीया ॥५॥

टिप्पणी: १. ऋ० १।८।१, अथ० २०।७०।१७। २. सजित्वानं सहभूतानां शत्रूणां जेतृ—इति वि०। सजित्वानो जयशीलाः पुरुषाः तैः सहितम्—इति भ०। समानशत्रुजयशीलम्, धनेन हि शूरान् भृत्यान् सम्पाद्य शत्रवो जीयन्ते—इति सा०। समानानां शत्रूणां विजयकारकम्—इति ऋ० १।८।१ भाष्ये द०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं परमात्मपक्षे व्याख्यातवान्।